NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि

Sanskrit Class 7 Chapter 15 परिशिष्‍टम् २ धातुरूपाणि

लकाराः (क्रियापदानां रूपाणि)

सामान्यतः संस्कृतभाषायाम् २००० धातवः सन्ति । तेभ्यः ‘तिङ्’ प्रत्ययान् योजयामः चेत् ते एव तिङन्ताः भवन्ति। तिङ्-प्रत्ययाः येषाम् अन्ते सन्ति ते तिङन्ताः। अथवा लकाराः इति वक्तुं शक्नुमः ।
धातवः त्रिप्रकारकाः भवन्ति –

१. परस्मैपदि – धातवः
२. आत्मनेपदि-धातवः
३. उभयपदि धातवः

परस्मैपदि-धातूनां लट्-लकारस्य रूपाणि (वर्तमानकालः)

लट्-लकारः (वर्तमानकालः)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 1

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि

आत्मनेपदिधातूनां लट्-लकारस्य रूपाणि (वर्तमानकालः)

लट्-लकारः (वर्तमानकालः)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 2

परस्मैपदि-धातूनां लृट्-लकारस्य रूपाणि (भविष्यत्कालः)

लृट्-लकारः (भविष्यत्कालः)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 3

आत्मनेपदिधातूनां लृट्-लकारस्य रूपाणि (भविष्यत्कालः)

लट्-लकारः (वर्तमानकालः)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 4

परस्मैपदि-धातूनां लङ्-लकारस्य रूपाणि (भूतकालः)

भूतकालः (वर्तमानकालः)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 5
NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 6

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि

परस्मैपदि-धातूनां लोट्-लकारस्य रूपाणि

(आज्ञार्थे, प्रार्थनार्थे, विध्यर्थे, निमन्त्रणार्थे, आमन्त्रणार्थे)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 7
NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 8

परस्मैपदि-धातूनां विधिलिङ्-लकारस्य रूपाणि
(आज्ञार्थे, प्रार्थनार्थे, विध्यर्थे, निमन्त्रणार्थे, आमन्त्रणार्थे)

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 9

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि
NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 10

अधिकं जानीमः (सन्धीनां सामान्यः परिचयः)

सन्धयः

उच्चारणसमये परस्परं वर्णानाम् अत्यन्तं सामीप्यं ‘संहिता’ भवति । यदा संहिता भवति तदा वर्णेषु परिवर्तनं भवति। एवं प्रकारेण यत्र संहिताद्वारा वर्णानां परिवर्तनं भवति तस्यैव ‘सन्धिः’ इति नाम । व्याकरणे प्रमुखतया त्रयः सन्धयः सन्ति। तेषां पुनः बहवः प्रभेदाः सन्ति । यथा –
सन्धिः-
(१) स्वरसन्धिः
(२) व्यञ्जनसन्धिः (हल्- सन्धिः)
(३) विसर्गसन्धिः

स्वरसन्धयः (अच्-सन्धयः) – सप्त प्रकाराः

१. सवर्णदीर्घसन्धिः
२. गुणसन्धिः
३. वृद्धिसन्धिः
४. यण्-सन्धिः
५. अयादिसन्धिः
६. पूर्वरूपसन्धिः
७. प्रकृतिभावसन्धिः

एतेषु स्वरसन्धिषु केषाञ्चन सन्धीनां सामान्यः परिचयः अत्र प्रदत्तः वर्तते ।

१. सवर्णदीर्घ-सन्धिः – ‘अ इ उ ऋ’ एतेषां वर्णानाम् अनन्तरं यदि समानवर्णः भवति तर्हि तयोः द्वयोः वर्णयोः स्थाने एकः दीर्घः आदेशः भवति।
नियम:-
(क) अ + अ = आ,
(ख) अ + आ = आ,
(ग) आ + अ = आ,
(घ) आ + आ = आ
NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 11

२. गुण-सन्धिः – अ, आ वर्णयोः इ, ई परे ‘ए’ कारः आदेशः भवति । अ, आ वर्णयोः उ, ऊ परे ‘ओ’ कारः आदेशः भवति । तथैव अ, आ वर्णयोः ऋ ॠ परे ‘अर्’ आदेशः भवति । एषः एव गुणसन्धिः” इति । “ए, ओ, अर्” एते गुणाक्षराणि भवन्ति।

नियम: –

  1. अ / आ + इ/ई = ए.
  2. अ/आ + उ/ऊ = ओ,
  3. अ/आ + ऋ/ॠ

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 12

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि

३. वृद्धि-सन्धिः – अ, आ वर्णयोः ए, ऐ परे ‘’ऐ’कारः आदेशः भवति । अ, आ वर्णयोः ओ, औ परे ‘औ’कारः आदेशः भवति । तथैव अ, आ वर्णयोः अर् आर् परे ‘आर्’ आदेशः भवति । एषः एव “वृद्धिसन्धिः” इति। “ऐ, औ, आर्” एते वृद्धि – अक्षराणि भवन्ति ।

नियमः –

  1. अ/आ + ए / ऐ = ऐ,
  2. अ/आ + ओ/औ = औ,
  3. अ/आ + अर्/आर्= आर्

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 13

४. यण्-सन्धि: – इ/ई, उ/ऊ, ऋ/ ऋ, लृ वर्णानां असवर्णस्वरे परे क्रमशः तयोः स्थानयोः क्रमश) ‘यू, व्, र्, ल्’ आदेशाः भवन्ति । इ/ई वर्णयोः असवर्णस्वरे परे ‘य’ कारः आदेशः भवति। उ/ऊ वर्णयोः असवर्णस्वरे परे ‘ व ‘ कारः आदेशः भवति । ऋ ॠ वर्णयोः असवर्णस्वरे परे ‘र’ कारः आदेशः भवति । ‘ऌ’ वर्णात् असवर्णस्वरे परे ‘लू’ कारः आदेशः भवति । एषः एव “यण्सन्धिः” इति । “य्, व्, र्, ल्” एते यण्-वर्णाः भवन्ति ।

नियमः –

  1. अ/आ + ए/ऐ = ऐ,
  2. अ/आ + ओ /औ = औ,
  3. अ/आ + अर्/आर् = आर्

NCERT Class 7 Sanskrit Chapter 15 परिशिष्‍टम् २ धातुरूपाणि 14