कक्षा 7 संस्कृत पाठ 9 के प्रश्न उत्तर अन्नाद् भवन्ति भूतानि
१. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए।)
(क) पुत्र्याः जिज्ञासा का ?
(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
(ङ) आहारात् के उत्पन्नाः ?
(च) माता किं किं पठितवती ?
उत्तरः
(क) पुत्र्याः जिज्ञासा यत् वयं मनुष्याः प्राणिनः कीटाः च कथं भूलोके आगताः।
(ख) ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।
(ग) अग्नेः जलस्य उत्पत्तिः अभवत् ।
(घ) पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत्।
(ङ) आहारात् कीटाः प्राणिनः मनुष्याः उत्पन्नाः।
(च) माता आधुनिक रसायनशास्त्रम् उपनिषद-ग्रन्थान् च पठितवती ।
२. पाठं पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु ।
(पाठ को पढ़कर खाली स्थानों में उचित पद लिखिए।)
(क) अम्ब! मम काचिद् ………… अस्ति।
(ख) प्रथमं ………. आकाशस्य उत्पत्तिः अभवत् ।
(ग) साक्षात् ………… उत्पत्तिं वदतु।
(घ) ………. कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब ?
(ङ) अहम् आधुनिकं ………., ………… च पठितवती ।
(च) अस्माकं ………. ज्ञानं तेषु एव निहितम् अस्ति ।
उत्तरः
(क) जिज्ञासा
(ख) ब्रह्मणः
(ग) मनुष्याणाम्
(घ) आहारात्
(ङ) रसायनशास्त्रम्; उपनिषद्-ग्रन्थान्
(च) मौलिकं
३. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु ।
(उदाहरण के अनुसार नीचे दिए गए शब्दों के वचन परिवर्तन कीजिए।)

उत्तरः
४. उदाहरणानुसारम् अधः रेखाङ्कितानिपदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु ।
(उदाहरण के अनुसार रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।)

उत्तरः
(क) • राजेश कुतः पुस्तकम् आनयति ?
• राजेश कस्मात् पुस्तकम् आनयति ?
(ख) • विकासः कुतः लेखनीं स्वीकृतवान्?
• विकास: : कस्मात् लेखनीं स्वीकृतवान्?
(ग) • माता कुतः पुत्रं पश्यति?
• माता कस्मात् पुत्रं पश्यति?
(घ) • कुतः गङ्गा प्रवहति ?
• कस्मात् गङ्गा प्रवहति ?
५. अधः प्रदत्तानि पदानि पठन्तु, तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु ।
(नीचे दिए गए पदों को पढ़िए, उन पदों के पर्याय पाठ में हैं, उन्हें चुनकर पहेली में लिखिए।)
उत्तरः
६. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु –
(उदाहरण के अनुसार किसने किससे विद्या प्राप्त किया, इसे पूर्ण वाक्य में लिखिए।)
उत्तरः
(ख) पदम्पादः शङ्कराचार्यात् विद्यां प्राप्तवान्।
(ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान्।
(घ) रामः वशिष्ठात् विद्यां प्राप्तवान्।
(ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान्।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान्।
(छ) अर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान् ।
७. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषाया / प्रान्तीयभाषाया/आङ्ग्लभाषाया वा अनुवादं कुर्वन्तु ।
(नीचे दिए गए वाक्यों को पढ़कर मातृभाषा या प्रान्तीयभाषा या अंग्रेज़ी भाषा में अनुवाद कीजिए ।)
(क) राधा नगरात् आगच्छति। …………………………
(ख) विनयः वृक्षात् पुष्पाणि चिनोति । …………………………
(ग) सन्दीप कार्यालयात् गृहं गतवान् । …………………………
(घ) भगिनी दूरात् वाहनं पश्यति । …………………………
(ङ) मित्रं शालाया: गृहम् आगतवान्। …………………………
(च) बालः कपाटिकायाः धनं स्वीकरोति । …………………………
उत्तरः
(क) राधा शहर से आती है।
(ख) विनय पेड़ से फूल चुनता है।
(ग) सन्दीप कार्यालय से घर गया ।
(घ) बहन दूर से वाहन को देखती है।
(ङ) मित्र शाला से घर आया।
(च) बालक अलमारी से धन लेता है।
नोट- यहाँ हिंदी अनुवाद दिया गया है। इसके आधार पर छात्र स्वयं अपनी मातृभाषा में अनुवाद कर सकते हैं।
NCERT Class 7 Sanskrit Chapter 9 Extra Questions and Answers अन्नाद् भवन्ति भूतानि
प्रश्न 1.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
(नीचे लिखे नाट्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
(क) पुत्री – अम्ब! मम काचिद् जिज्ञासा अस्ति । वयं मनुष्याः प्राणिनः कीटाः च कथं भूलोके आगताः ?
माता – वत्से! तदर्थं भवती प्रथमं पृथिव्याः उत्पत्तिक्रमं जानीयात्।
पुत्री – अहो! रोचकं स्यात् कृपया श्रावयतु।
माता – अस्तु! प्रथमं ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।
पुत्री – ब्रह्म इत्युक्ते किम् अम्ब ?
माता – ब्रह्म इत्युक्ते ऊर्जा या सर्वत्र व्याप्ता अस्ति । यथा अणुः सर्वत्र व्याप्तः अस्ति।
पुत्री – अनन्तरम्?
माता – आकाशात् वायुः उत्पन्नः।
पुत्री – अम्ब! पृथिवी कदा उत्पन्ना ?
माता – शृणोतु, वदामि। वायोः अग्निः उत्पन्नः।
पुत्री – एतत् सर्वं किमर्थम् अम्ब? साक्षात् मनुष्याणाम् उत्पत्तिं वदतु।
माता – अरे वत्से ! एतत् सर्वं नास्ति चेत् कथं मनुष्याः प्राणिनः वा जीवन्ति ?
I. एकपदेन उत्तरत।
(i) पुत्र्याः मनसि का अस्ति ?
उत्तरः
जिज्ञासा
(ii) प्रथमं कस्य उत्पत्तिः अभवत्?
उत्तरः
आकाशस्य
(iii) आकाशस्य उत्पत्तिः कस्मात् अभवत्?
उत्तरः
ब्रह्मणः
(iv) अग्निः कस्मात् उत्पन्नः अभवत्?
उत्तरः
वायो:
II. पूर्णवाक्येन उत्तरत।
(i) ‘ब्रह्म:’ इत्युक्ते किम् अस्ति ?
उत्तरः
ब्रह्म इत्युक्ते ऊर्जा या सर्वत्र व्याप्ता अस्ति। यथा अणुः सर्वत्र व्याप्तः अस्ति ।
(ii) प्रथमं ब्रह्मणः कस्य उत्पत्तिः अभवत्?
उत्तरः
प्रथमं ब्रह्मणः आकाशस्य उत्पत्तिः अभवत ।
(iii) सर्वप्रथमं कस्याः उत्पत्तिक्रमं जानीयात् ?
उत्तरः
सर्वप्रथमं पृथिव्याः उत्पत्तिक्रमं जानीयत् ।
III. भाषिककार्यम् ।
(i) ‘पवनात्’ इति पदस्य पर्यायपदं किं आगतम् ?
(क) वायोः
(ख) वायुः
(ग) वायुना:
उत्तरः
(क) वायोः
(ii) मातः ! इति सम्बोधनपदस्य कृते किं सम्बोधनपदं अत्र प्रयुक्तम् ?
(क) माता!
(ख) अम्ब!
(ग) माते!
उत्तरः
(ख) अम्ब!
(iii) ‘पश्चात्’ इति अर्थे किं पदं प्रयुक्तम् ?
(क) अनन्तरम्
(ख) रोचकम्
(ग) प्रथमम्
उत्तरः
(क) अनन्तरम्
(iv) एतत् सर्वं ……….. चेत् कथं मनुष्याः प्राणिनः वा जीवन्ति ?
(क) अस्ति
(ख) नास्ति
(ग) न अस्ति
उत्तरः
(ख) नास्ति
(ख) पुत्री – जलम् आहार: वायुः च अस्ति चेत् पर्याप्तं खलु !
माता – आम्, अतः तेषामपि उत्पत्तिं जानातु ।
पुत्री – तर्हि अग्नेः कस्य उत्पत्तिं अभवत्?
माता – अग्नेः जलस्य उत्पत्तिः अभवत् ।
पुत्री – जलात् मनुष्यस्य उत्पत्तिः एव खलु ?
माता – नैव वत्से! जलात् पृथिव्याः उत्पत्तिः अभवत् ।
पुत्री – अहो! सत्यं खलु, अहं विस्मृतवती एव । पृथिव्याः तु प्राणिनः मनुष्याः च उत्पन्नाः।
माता – नहि नहि, पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत् ।
पुत्री – अहो अद्भुतम्!
माता – सस्येभ्यः आहारस्य उत्पत्तिः अभवत् ।
पुत्री – आम्, आहरस्य उत्पत्तेः परं भूमौ सर्वमपि आगतम् एव। अतः आहारात् कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब ?
I. एकपदेन उत्तरत।
(i) जलस्य उत्पत्तिः कस्मात् अभवत्?
उत्तरः
अग्नेः
(ii) पृथिव्याः उत्पत्तिः कस्मात् अभवत्?
उत्तरः
जलात्
(iii) सस्येभ्यः कस्य उत्पत्तिः अभवत्?
उत्तरः
आहारस्य
II. पूर्णवाक्येन उत्तरत।
(i) पृथिव्याः केषाम् उत्पत्ति अभवत्?
उत्तरः
पृथिव्याः ओषधीनां सस्यानां वृक्षादीनां च उत्पत्तिः अभवत्।
(ii) आहारात् के उत्पन्नाः अभवन् ?
उत्तरः
(ii) आहारात् कीटाः प्राणिनः मनुष्याः उत्पन्नाः अभवत्।
III. भाषिककार्यम् ।
(i) ‘वारि’ इति पदस्य पर्यायपदं किं आगतम् ?
(क) जलम्
(ख) वायुः
(ग) अग्नि
उत्तरः
(क) जलम्
(ii) ‘बहु चतुरा’ अत्र विशेषणं पदं किम् ?
(क) बहु
(ख) चतुरा
(ग) बहु चतुरा
उत्तरः
(क) बहु
(iii) ‘आहारस्य उत्पत्तिः अभवत् । ‘अत्र क्रियापदं किम् ?
(क) आहार:
(ख) उत्पत्तिः
(ग) अभवत्
उत्तरः
(ग) अभवत्
प्रश्न 2.
निम्नवाक्यानां लट्लकारात् भूतकाले परिवर्तयन्तु ।
(निम्नलिखित वाक्यों को वर्तमान काल से भूतकाल में परिवर्तित कीजिए।)

उत्तरः
(क) तौ बालकौ अलिखताम् ।
(ख) अहम् उपनिषदम् अपठम्।
(ग) त्वम् किम् अपठः ?
(घ) ताः अखेलन्।
(ङ) सिंहः पशून् अमारयत्।
(च) आवाम् अधावाव ।
(छ) ते अचलन्।
प्रश्न 3.
शुद्धं विकल्पं चित्वा निम्नलिखित – वाक्यानि संशोधयत ।
(शुद्ध विकल्प चुनकर निम्नलिखित वाक्यों को शुद्ध कीजिए ।)
(क) सूर्यांश: कलं पत्रं लिखति ।
(i) कलमात्
(ii) कलमेन
(iii) कलमानि
उत्तरः
(ii) कलमेन
(ख) शिष्यः अध्यापकं ज्ञानं प्राप्नोति ।
(i) अध्यापकात्
(ii) अध्यापका:
(iii) अध्यापकेन
उत्तरः
(i) अध्यापकात्
(ग) मेधा विदेशेन विमानेन आगच्छति ।
(i) विदेशम्
(ii) विदेशात्
(iii) विदेश:
उत्तरः
(ii) विदेशात्
(घ) जनकः कार्यालयं गृहम् आगच्छति।
(i) कार्यालयात्
(ii) कार्यालय:
(iii) कार्यालयेन
उत्तरः
(i) कार्यालयात्
(ङ) कृषकः क्षेत्रं घासम् आनयति।
(i) क्षेत्रेण
(ii) क्षेत्रात्
(iii) क्षेत्राणि
उत्तरः
(ii) क्षेत्रात्
प्रश्न 4.
उचित – धातुरूपैः रिक्तस्थानानि पूरयन्तु ।
(उचित धातुरूप से रिक्त स्थान भरिए ।)
(क) पुरा दशरथः नाम एकः राजा ……….। (आसीत्/आसन्)
(ख) ते बालकाः ……….। (अपठताम्/अपठन्)
(ग) त्वं दुग्धम् ……….। (अधिब:/अपिबम्)
(घ) अहम् ईश्वरं ……….। (नमामि / नमावः)
(ङ) सः गणेशं ……….। (स्मरामि / स्मरति)
(च) युवां पाठ ……….। (पठामः/पठथः)
उत्तरः
(क) आसीत्
(ख) अपठन्
(ग) अपिब:
(घ) नमामि
(ङ) स्मरति
(च) पठथः
प्रश्न 5.
‘सत्यम्’ ‘असत्यम्’ वा इति लिखत ।
(‘सत्य’ या ‘असत्य’ लिखिए।)
(क) जलात् पृथित्याः उत्पत्तिः अभवत्। ____
(ख) प्रथमं ब्रह्मणः वायोः उतपत्तिः अभवत्। ____
(ग) माता ज्योतिषं पठितवती । ____
(घ) अग्नेः जलस्य उत्पत्तिः अभवत्। ____
(ङ) सस्येभ्यः आहारस्य विनाशः अभवत्। ____
(च) वायोः आकाशस्य उत्पत्तिः अभवत् । _____
उत्तरः
(क) सत्यम्
(ख) असत्यम्
(ग) असत्यम्
(घ) सत्यम्
(ङ) असत्यम्
(च) असत्यम्