NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

Sanskrit Class 8 Chapter 12 Question Answer सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

Class 8 Sanskrit Chapter 12 NCERT Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

कक्षा 8 संस्कृत पाठ 12 के प्रश्न उत्तर सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

अभ्यासात् जायते सिद्धिः (पृष्ठ 142–145)

१. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।
उत्तराणि :
छात्रा : स्वयं करिष्यन्ति ।

२. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत-
(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तराणि :
वर्णानां

(ख) किम् अवश्यमेव पठनीयम् ?
उत्तराणि :
व्याकरणम्

(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तराणि :
सम्यग्वर्णप्रयोगेन

(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तराणि :
षड्

(ङ) धैर्यं केषां गुण: ?
उत्तराणि :
उत्तमपाठकस्य

NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

३. अधोलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखित-
(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तराणि :
व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति।

(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तराणि :
वर्णाः स्पष्टतया सम्यक् उच्चारणेन प्रयोक्तव्याः ।

(ग) पाठकानां षड्-गुणाः के भवन्ति ?
उत्तराणि :
माधुर्यम्, अक्षर व्यक्तिः, पदच्छेदः, धैर्य:, ,सुस्वरः लयसमर्थं च षट् एते पाठकानां श्रेष्ठगुणाः भवन्ति।

(घ) के अधमाः पाठकाः भवन्ति ?
उत्तराणि :
गीति, शीघ्री, शिरःकम्पी, लिखितपाठक : अनर्थज्ञः अल्पकण्ठः च अधमाः पाठकाः भवन्ति ।

(ङ) ‘स्वजन:’ ‘श्वजन’ च इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तराणि :
‘स्वजन:’ इति शब्दः बान्धवाचक:, ‘श्वजन:’ इति शुनकः (कुक्कुरः) भवति ।

(च) ‘सकलं’ ‘शकलं’ च इत्यनयोः अर्थदृष्टया कः भेद: ?
उत्तराणि :
‘सकलं’ इति सम्पूर्णवाचकः विशेषणपदं । ‘ शकलं’ इति खण्डाय प्रयुक्तम् ।

४. अधोलिखितानि लक्षणानि पाठकस्य गुणाः वा दोषाः वा इति विभजत-

अक्षरव्यक्तिः, शीघ्री, लिखितपाठकः, लयसमर्थम्, अनर्थः,
अल्पकण्ठः, माधुर्यम्, गीति, पदच्छेदः, शिर: कम्पी, अनर्थज्ञः, धैर्यम्, सुस्वर:

NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते 1
उत्तराणि :

गुणाः दोषाः
यथा— अक्षरव्यक्ति: शीघ्री
माधुर्यम् लिखितपाठकः
पदच्छेदः गीति
सुस्वरः अल्पकण्ठः
धैर्यम् शिरःकम्पी
लयसमर्थम् अनर्थज्ञः

५. श्लोकानुसारं रिक्तस्थानानि उचितैः शब्दैः पूरयत-
(क) भीता _________ तद्वद् वर्णान् प्रयोजयेत् ।
उत्तराणि :
पतनभेदाभ्याम्

(ख) _________ लयसमर्थं च षडेते पाठका गुणाः ।
उत्तराणि :
धैर्यं

(ग) गीती शीघ्री _________ तथा लिखितपाठकः ।
उत्तराणि :
शिरःकम्पी

(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च _________ ।
उत्तराणि :
पीड़िता:

(ङ) स्वजन: _________ माभूत् सकलं शकलं सकृत् शकृत्।
उत्तराणि :
श्वजनो

६. अधोलिखितानि वाक्यानि सत्यम् वा असत्यम् वा इति लिखत-
यथा- पदच्छेदः पाठकानां गुणः अस्ति । सत्यम्/असत्यम्
(क) गानसहितपठनं पाठकानां दोषः भवति । _________
उत्तराणि :
सत्यम्

(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति। _________
उत्तराणि :
सत्यम्

(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति । _________
उत्तराणि :
असत्यम्

(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति । _________
उत्तराणि :
असत्यम्

(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत् । _________
उत्तराणि :
सत्यम्

NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

योग्यताविस्तारः

(क) अक्षर/मात्रापरिवर्तनेन अर्थपरिवर्तनं भवति-
NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते 2
यथा-
मित्रम् (बन्धुः) – मित्र: (सूर्यः)
फलम् (आम्रादिफलम्) – पलम् (मांसः)
पुरुषः (जनः) – परुषः (कठोरः)
अवदानम् (योगदानम्) – अवधानम् (एकाग्रता)
प्रतिपलम् (प्रतिक्षणमू) – प्रतिफलम् (परिणामः)
नदति (ध्वनिं करोति) – नुदति (प्रेरयति)
ददाति (दानं करोति) – दधाति (धारणं करोति)

(ख) निम्नलिखितान् श्रोकान् अपि स्मरत

आलस्यात् मूर्खसंयोगाद् भयाद् रोगनिपीडनात्।
अत्याशक्त्याच्च मानाच्च षड्भिर्विद्या विनश्यति॥ (माण्डूक्य-शिक्षा)

जलमभ्यासयोगेन शैलानां कुरुते क्षयम्।
कर्कशानां मृदुस्पर्शं किमभ्यासात् न साध्यते? (याज्ञवल्क्य-शिक्षा)

येषां तीर्थाऽगता विद्या नित्यमभ्यासवर्तिता।
ते भवन्ति दुराधर्षाः ससिंहाः इव पर्वताः॥ (माण्डूक्य-शिक्षा)

काकचेष्टो बकध्यानः श्वाननिद्रस्तथैव च।
अल्पाहारी गृहत्यागी विद्यार्थी पञ्चलक्षणः॥ (लोकप्रचलित-नीतिश्लोक:)

यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति॥ (याज्ञवल्यक्य-शिक्षा)

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते॥

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात् साड्गमधीत्यैव ब्रह्मलोके महीयते ॥ (पाणिनीय-शिक्षा कारिका)

परियोजनाकार्यम्

कक्ष्यायां श्रोकोच्चारण-प्रतियोगितां स्थापयित्वा निर्मित-सूच्यनुगुणम् उच्चारणम् अवलोकनीयम्।
अत्र के के गुणा: दोषा: च जाता: इति अध: लिखत-
NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते 3

NCERT Class 8 Sanskrit Chapter 12 Question Answer Solutions सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

अत्र इदम् अवधेयम्

‘शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द:-ज्योतिषम्’ इति षट् वेदाङ्गानि सन्ति।

वेदाड्गानि

  • शिक्षा – शिक्षाग्रन्थेषु वर्णानाम् उच्चारणविधिः, स्वराः, विरामः च वर्णिताः सन्ति।
  • कल्पः – कल्पग्रन्थेषु यज्ञादीनां क्रियाविधेः वर्णनम् अस्ति।
  • व्याकरणम् – व्याकरणग्रन्थेषु भाषायाः नियमाः सन्ति।
  • निरुक्तम् – अस्मिन् शास्त्रे शब्दानां व्युत्पत्तिः वर्तते।
  • छन्द: – अस्मिन् शास्त्रे मात्रा-ताल-इत्यादिदृष्ट्या गायनसम्बद्धं वर्णनम् अस्ति।
  • ज्योतिषम् – अस्मिन् शास्त्रे सूर्य-चन्द्र-इत्यादीनां नक्षत्राणां गतेः एवं तेषां प्रभावस्य वर्णनम् अस्ति।