Sanskrit Class 8 Chapter 3 Question Answer सुभाषितरसं पीत्वा जीवनं सफलं कुरु
Class 8 Sanskrit Chapter 3 NCERT Solutions सुभाषितरसं पीत्वा जीवनं सफलं कुरु
कक्षा 8 संस्कृत पाठ 3 के प्रश्न उत्तर सुभाषितरसं पीत्वा जीवनं सफलं कुरु
अभ्यासात् जायते सिद्धि: (पृष्ठ 32–35)
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) गीतानि के गायन्ति ?
____________________
उत्तराणि :
देवा:
(ख) क: बल न वेत्ति ?
____________________
उत्तराणि :
निर्बलः
(ग) कः वसन्तस्य गुणं वेत्ति ?
____________________
उत्तराणि :
पिक:
(घ) मूषकः कस्य बलं न वेत्ति ?
____________________
उत्तराणि :
सिंहस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ?
____________________
उत्तराणि :
तरवः
(च) केन समं सख्यं न करणीयम् ?
____________________
उत्तराणि :
दुर्जनेन
(छ) केन विना दैवं न सिध्यति ?
____________________
उत्तराणि :
पुरुषकारेण ।
![]()
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम्
उत्तराणि पूर्णवाक्येन लिखत-
(क) तरवः कदा नम्राः भवन्ति ?
____________________
उत्तराणि :
तरवः फलोद्गमैः नम्राः भवन्ति।
(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
____________________
उत्तराणि :
समृद्धिभिः सज्जनाः अनुद्धताः भवन्ति ।
(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
____________________
उत्तराणि :
सत्पुरुषाः स्वभावेन परोपकारिणः भवन्ति।
(घ) सत्यम् कदा सत्यम् न भवति ?
____________________
उत्तराणि :
यत् छलम् अभ्युपैति तत् न सत्यम्।
(ङ) दैवं कदा न सिध्यति ?
____________________
उत्तराणि :
दैवं पुरुषकारेण विना न सिध्यति ।
३. स्तम्भयोः मेलनं कुरुत-

उत्तराणि :
| (क) | (ख) |
| गायन्ति देवाः किल गीतकानि | भारतभूमेः माहात्म्यवर्णनम् |
| गुणी गुणं वेत्ति | सज्जनः एव गुणानां मर्मज्ञः |
| भवन्ति नम्राः तरवः फलोद्गमैः | सत्पुरुषाणां स्वाभाविकी नम्रता |
| यथा चतुर्भिः कनकं परीक्ष्यते | सुवर्णं चतुर्भिः प्रकारै: परीक्ष्यते |
| अष्टौ गुणाः पुरुषं दीपयन्ति | प्रज्ञा, दमः, दानं कृतज्ञता इत्यादयः |
| दुष्टसङ्गः उष्णाङ्गारसदृशः | दुर्जनेन समं सख्यं न कारयेत् |
| एकेन चक्रेण न रथस्य गतिः | केवलं दैवं प्रयत्नं विना असिद्धम् |
४. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
| फलोद्गमैः, गुणं, कृतज्ञता, सिध्यति, श्रुतम्, शीलेन |
(क) गुणी ___________ वेत्ति न वेत्ति निर्गुणः।
उत्तराणि :
गुणम्
(ख) भवन्ति नम्राः तरवः ___________।
उत्तराणि :
फलोद्गमैः
(ग) पुरुष: परीक्ष्यते कुलेन, ___________ गुणेन, कर्मणा।
उत्तराणि :
शीलेन
(घ) गुणाः पुरुषं दीपयन्ति प्रज्ञा, कौल्यं, दमः, ___________।
उत्तराणि :
श्रुतम्, दानम्, पराक्रमः
(ङ) दानं यथाशक्ति ___________ च।
उत्तराणि :
कृतज्ञता
(च) एवं पुरुषकारेण विना दैवं न
उत्तराणि :
सिध्यति
![]()
५. समुचितं विकल्पं चिनुत-
(क) “ गायन्ति देवाः किल गीतकानि ” – इत्यस्य श्लोकस्य मुख्यविषयः कः ?
(i) वसन्तस्य सौन्दर्यम्
(ii) भारतभूमेः गौरवम्
(iii) कर्मणा फलम्
(iv) दानस्य प्रभावः
उत्तरम् :
(ii) भारतभूमेः गौरवम्
(ख) “गुणी गुणं वेत्ति” – इत्यत्र कः गुणं न जानाति ?
(i) गुणी:
(ii) निर्गुण:
(iii) पिक:
(iv) बली
उत्तरम् :
(ii) निर्गुण:
(ग) “पिको वसन्तस्य गुणं न वायसः’ – इत्यस्य तात्पर्यं किम्?
(i) पिक: मधुरं गायति न वायसः
(ii) सुजन एव गुणं जानाति
(iii) वायसः अपि सरसं गानं करोति
(iv) वसन्तः निर्गुणः अस्ति
उत्तरम् :
(i) पिक: मधुरं गायति न वायसः
(घ) “भवन्ति नम्राः तरवः फलोद्गमैः ” इत्यस्य अर्थः कः?
(i) वृक्षाणां कठोरता
(ii) सत्पुरुषाणाम् उन्नतिः
(iii) फलयुक्ता: वृक्षाः नम्राः भवन्ति
(iv) परोपकारिणां दुर्बलता
उत्तरम् :
(iii) फलयुक्ता: वृक्षाः नम्राः भवन्ति
(ङ) “न सा सभा यत्र न सन्ति वृद्धा: ” – इत्यत्र सभायाः महत्त्वं किम्?
(i) सभा मनोरञ्जनाय भवति
(ii) सभा धनसम्पत्तिं प्रदातुं शक्नोति
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(iv) सभा केवलं राजकार्यार्थं भवति
उत्तरम् :
(iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
(i) सः मित्रं भवति
(ii) स: धनं ददाति
(iii) स: शिक्षां ददाति
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
उत्तरम् :
(iv) स: उष्णाङ्गारवद् हानिकरः भवति
योग्यताविस्तारः
- विष्णुपुराणम् – प्रसिद्धेषु अष्टादशसु पुराणेषु विष्णुपुराणम् अन्यतमम्। अस्मिन् पुराणे प्रायेण सप्तसहस्राधिकश्लोकाः सन्ति। अत्र भगवतः विष्णोः तस्य च अवताराणां विषये वर्णितम्। भारतवर्षस्य गौरवविषये विष्णुपुराणम् अतीव प्रामाणिकं तथ्यं प्रकाशयति।
- महाभारतम् – संस्कृतसाहित्ये महाभारतम् इति इतिहासग्रन्थः पञ्चमवेदरूपेण स्वीकृतः। अस्मिन् ग्रन्थे लक्षाधिकाः श्रोकाः सन्ति। अतः शतसाहस्त्रीसंहिता इति अस्य अपरं नाम। महाभारते अष्टादश पर्वाणि सन्ति।
- भर्तृहरिः – भर्तृहरिः संस्कृतकाव्यवाক্লये महान् कविः अस्ति। नीतिशास्रविशारदस्य तस्य कृतयः नीतिशतकं शृङ्गारशतकं वैराग्यशतकं चेति भारतीयज्ञानपरम्परां पोषयन्ति।
- हितोपदेशः – पण्डितनारायणेन हितोपदेशः कथाग्रन्थः सड्कलितः। ग्रन्थेऽस्मिन् विविधाः कथाः नीतिश्लोकाः च सन्ति। हितोपदेशः चतुर्था विभक्तः – मित्रलाभः, सुहन्देदः, विग्रहः, सन्धिः।
- चाणक्यनीतिः – चाणक्यस्य नीतिश्लोकाः माणिक्यसदृशाः सन्ति। बालानां चरित्रनिर्माणाय आदर्शमानवजीवनप्रतिष्ठार्थं च आचार्यस्य चाणक्यस्य नीत्युपदेशाः अत्यन्तम् उपयोगिनः सन्ति।
परियोजनाकार्यम्
१. अन्तर्जालात् पुस्तकेभ्यश्च विंशतिसुभाषितानां सङ्ग्रहं कुरुत।
२. किमपि नीतिवाक्यम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
३. पाठे आगतानि सुभाषितानि कण्ठस्थीकृत्य कक्षायां श्रावयत।
अत्र इदम् अवधेयम्
संस्कृतश्लोकेषु प्रतिपद्यं पादचतुष्टयम् अस्ति । छन्दोबद्ध- सस्वरगानशैली अपि अस्ति । श्लोकेषु सन्धिसमासयुक्तपदानि भवन्ति ।
सरलार्थ – संस्कृत श्लोकों में प्रत्येक पद्य के चार चरण होते हैं। छन्दोबद्ध सस्वर गान शैली भी है। श्लोकों में सन्धि समास युक्त पद होते हैं। यथा-
- नम्रास्तरवः = नम्राः + तरवः ।
- अभ्युपैति अभि + उप + एति ।
- अनुद्धताः = न उद्धताः (नञ् तत्पुरुषसमासः)।
- यथाशक्ति = शक्तिम् अनतिक्रम्य (अव्ययीभावः) ।