Sanskrit Class 8 Chapter 4 Question Answer प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
Class 8 Sanskrit Chapter 4 NCERT Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
कक्षा 8 संस्कृत पाठ 4 के प्रश्न उत्तर प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
अभ्यासात् जायते सिद्धिः (पृष्ठ 44–46)
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) समाज-दिनपत्रिकायाः प्रतिष्ठाता क: ?
उत्तराणि :
गोपबन्धुः
(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान् ?
उत्तराणि :
भिक्षुकाय
(ग) मरणासन्नः कः आसीत्?
उत्तराणि :
पुत्रः
(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्?
उत्तराणि :
‘उत्कलमणि’ इत्यनेन
(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्?
उत्तराणि :
वर्षद्वयम्।
![]()
२. एकवाक्येन उत्तरं लिखत-
(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तराणि :
गोपबन्धुः भिक्षुकं दृष्ट्वा अश्रुपूर्णनयनः अभवत्।
(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत् ?
उत्तराणि :
मरणासन्नं पुत्रं विहाय गोपबन्धुः समाज- सेवाम् अकरोत्।
(ग) गोपबन्धोः कृते उत्कलमणिः इति उपाधिः किमर्थं प्रदत्त:?
उत्तराणि :
गोपबन्धोः कृते उत्कलमणिः इति उपाधिः तस्य असीम त्यागाय प्रदत्तः ।
(घ) गोपबन्धुः कुत्र जन्म लब्धवान् ?
उत्तराणि :
गोपबन्धुः उडीशाप्रान्तस्य पुरीजनपदस्य सुआण्डोग्रामे जन्म लब्धवान्।
(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान्?
उत्तराणि :
गोपबन्धुः सर्वदा स्वदेशस्य वस्त्राणाम् उपयोगम् अकरोत्।
३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-
| सेवाम्, सुस्वादूनि सहायताम्, स्वदेशवस्त्राणि, अन्यतमः |
उत्तराणि :
(क) गोपबन्धुः दरिद्राणां सेवाम् अकरोत् ।
(ख) गोपबन्धुः भिक्षुकाय सुस्वादूनि व्यञ्जनानि अयच्छत्।
(ग) गोपबन्धुः रोगिणां सहायताम् अकरोत् ।
(घ) गोपबन्धवे स्वदेशवस्त्राणि रोचन्ते स्म ।
(ङ) गोपबन्धुः अध्यापकेषु अन्यतमः आसीत् ।
४. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत-

(क) ______________
(ख) ______________
(ग) ______________
(घ) ______________
(ङ) ______________
उत्तराणि :
( क ) एषः चिकित्सालयः अस्ति ।
(ख) अत्र अस्वस्थाः जनाः आगच्छन्ति।
(ग) एक : वृद्ध : निजपुत्रं चिकित्सार्थं नयति ।
(घ) बालः ज्वरेण पीडितः अस्ति ।
(ङ) प्रकोष्ठे चिकित्सकः अस्ति ।
५. समुचितेन पदेन श्लोकं पूरयत-
(क) ______________ मम लीयतां तनुः।
उत्तराणि :
स्वदेशभूमौ मम लीयतां तनुः ।
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो ______________
उत्तराणि :
उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः ।
(ग) स्वदेशलोकास्तदनु ______________ नु
उत्तराणि :
स्वदेशलोकास्तदनु प्रयान्तु नु
(घ) स्वराज्यमार्गे यदि ______________
उत्तराणि :
स्वराज्यमार्गे यदि गर्त्तमालिका,
![]()
(ङ) ______________ परिपूरितास्तु सा
उत्तराणि :
ममास्थिमांसैः परिपूरितास्तु सा
६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत-

यथा- गतवान् – गतवती
(क) प्राप्तवान् – ______________
(ख) उपविष्टवान् – ______________
(ग) भुक्तवान् – ______________
(घ) कृतवान् – ______________
(ङ) गृहीतवान् – ______________
उत्तराणि :
(क) प्राप्तवती
(ख) उपविष्टवती
(ग) भुक्तवती
(घ) कृतवती
(ङ) गृहीतवती
७. समुचितेन पदेन सह स्तम्भौ मेलयत-
| (क) | (ख) |
| 1. समाज: | गोपबन्धुः |
| 2. ममास्थिमांसैः | व्यञ्जनानि |
| 3. उत्कलमणिः | क्रन्दनध्वनिः |
| 4. आँ आँ … इति | दिनपत्रिका |
| 5. सुस्वादूनि | परिपूरितास्तु |
उत्तराणि :
| (क) | (ख) |
| 1. समाज: | दिनपत्रिका |
| 2. ममास्थिमांसैः | परिपूरितास्तु |
| 3. उत्कलमणिः | गोपबन्धुः |
| 4. आँ आँ … इति | क्रन्दनध्वनिः |
| 5. सुस्वादूनि | व्यञ्जनानि |
८. घटनाक्रमेण वाक्यानि पुनः लिखत-
(क) भिक्षुकञ्च तद्भोजितवान्।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ङ) दिनत्रयात् किमपि न भुक्तम् ।
(क) ______________
(ख) ______________
(ग) ______________
(घ) ______________
(ङ) ______________
उत्तराणि :
(क) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ख) दिनत्रयात् किमपि न भुक्तम् ।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(घ) भिक्षुकञ्च तद्भोजितवान्।
(ङ) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
योग्यताविस्तारः
भोजनस्यातिदौर्लभ्यं जीवनाय सुखप्रदम्।
तदर्थं भोजनं कुर्याः मा शरीरे दयां कुरु।।
पदच्छेदः – भोजनस्य अतिदौर्लभ्यम् जीवनाय सुखप्रदम् तदर्थम् भोजनम् कुर्याः मा शरीरे दयाम् कुरु।
अन्वयः – भोजनस्य अतिदौर्लभ्यं (विद्यते)। जीवनाय सुखप्रदं भोजनं कुर्याः। तदर्थं शरीरे दयां मा कुरु।
भावार्थः – भोजनम् अतीव दुर्लभं भवति। जीवनम् अग्रे नेतुं सुखप्रदं भोजनं करणीयम्।
अतः शरीरस्य कष्टं विचिन्त्य भोजनविषये कदापि सङ्कोचः लज्जा वा न करणीया इति।
उत्कलमणि-गोपबन्धुदासस्य जीवनपरिचयः —
उत्कलमणिः गोपबन्धुदासः
जन्म – ०९/१०/१८७७
जन्मस्थानम् – सुआण्डो-ग्रामः, पुरी-जनपदः, ओडिशाराज्यम्
पिता – दैत्यारिदासः
माता – स्वर्णमयी देवी
पत्नी – मोती देवी
एफ़्.ए. उत्तीर्णः – १९००, रेभेन्सा महाविद्यालयः, कटकम्, ओडिशा
बी.एल्. उत्तीर्णः – १९०६, कलकत्ता – विश्वविद्यालयः
सत्यवादि-वनविद्यालयस्य प्रतिष्ठा – १९०९
बिहार-ओडिशा व्यवस्थापकसभायाः सदस्यः – १९१७
समाज-साप्ताहिकपत्रिकायाः प्रकाशनम् – १९९९
भारतीय-जातीय-आन्दोलने योगदानम् – १९२०
उत्कलमणिः इति उपाधिना सम्माननम् – १९२४
रचनाः – अवकाशचिन्ता, बन्दीर आत्मकथा, कारा-कविता, धर्मपद, गो-माहात्म्य, नचिकेता-उपाख्यान
स्वर्गारोहणम् (साक्षी-गोपाले) – १७.०६.१९२८
सत्यवादि-वनविद्यालयः –
भारतस्य प्रथमः मुक्तविद्यालयः। १९०९ ख्रिस्ताब्दे अगस्तमासस्य १२ दिनाङ्के साक्षीगोपाल-नामके स्थाने प्रतिष्ठापितः। पण्डितः गोपबन्धुदासः, पण्डितः
नीलकण्ठदासः, पण्डितः डा. गोदावरीशमिश्रः, पण्डितः कृपासिन्धुमिश्रः, पण्डितः
लिड्गराजमिश्रः, आचार्यः हरिहरदासः, पण्डितः नन्दकिशोरदासः च इत्येषां देशभक्तानां मिलितप्रयासेन अयं निःशुल्कवनविद्यालयः तदानीम् आभारतं प्रतिष्ठाम्
अलभत। पञ्चसखायः मिलित्वा समाजसेवां कुर्वन्तः शिक्षाविकासं च कारयन्तः
स्वाधीनतान्दोलनाय जनान् प्रेरयन्ति स्म।
परियोजनाकार्यम
१. स्वप्रदेशस्य स्वतन्त्रतासङ्ग्रामिणां नामानि सड्गृह्य तेषु एकस्य सचित्रा संक्षिप्तजीवनीं लिखत।
२. जलप्लावपीडितानां साहाययार्थं स्वकीयाम् एकां कार्ययोजनां लिखत।
![]()
अत्र इदम् अवधेयम्
पूर्वरूपसन्धिः पदस्य अन्ते यदा “ए”कारः अथवा ‘ओ”कारः भवति, तदनन्तरम् अग्रिमपदस्य प्रथमवर्णः “अ”कारः भवति तदा पूर्वरूपसन्धिः भवति । तत्र “अ “कारस्य स्थाने ” ऽ” इति अवग्रहचिह्नस्य प्रयोगः भवति ।
पद के अंत में जब ‘ए’ अथवा ‘ओ’ होता है और उसके पश्चात् अगले पद का प्रथम वर्ण ‘अ’ होता पूर्वरूप सन्धि
होती है। वहाँ ‘अ’ के स्थान पर “s” अवग्रहचिह्न का प्रयोग होता है।
उदा –
- देशभक्तो + अयम् = देशभक्तोऽयम्
- सर्वे + अपि = सर्वेऽपि
- पशवो + अपि = पशवोऽपि
- बुभुक्षितो + अस्मि = बुभुक्षितोऽस्मि
- अश्रुपूर्णनयनो + अभवत् = अश्रुपूर्णनयनोऽभवत्