Sanskrit Class 8 Chapter 7 Question Answer मञ्जुलमञ्जूषा सुन्दरसुरभाषा
Class 8 Sanskrit Chapter 7 NCERT Solutions मञ्जुलमञ्जूषा सुन्दरसुरभाषा
कक्षा 8 संस्कृत पाठ 7 के प्रश्न उत्तर मञ्जुलमञ्जूषा सुन्दरसुरभाषा
अभ्यासात् जायते सिद्धिः (पृष्ठ 81–84)
१. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत-
(क) सुन्दरसुरभाषा कस्य वचनातीता?
___________________________
उत्तराणि :
मम (कवे 🙂
(ख) संस्कृतभाषा कुत्र विजयते ?
___________________________
उत्तराणि :
सर्वत्र
(ग) संस्कृतभाषा कस्य आशा ?
___________________________
उत्तराणि :
जीवनस्य
(घ) संस्कृते कति रसाः सन्ति?
___________________________
उत्तराणि :
नवरसाः
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
___________________________
उत्तराणि :
संस्कृतभाषायाः
२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
___________________________
उत्तराणि :
संस्कृतभाषा पौराणिक – सामान्यजनानां जीवनस्य आशा अस्ति ।
(ख) केषां विचाराः जनान् अभिप्रेरयन्ति?
___________________________
उत्तराणि :
वेदविषय – वेदान्तानाम् विचाराः जनान् अभिप्रेरयति ।
(ग) कै: रसैः समृद्धा साहित्यपरम्परा विराजते ?
___________________________
उत्तराणि :
नवरसैः समृद्धा साहित्यपरम्परा विराजते।
(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
___________________________
उत्तराणि :
संस्कृतभाषा वेदवेदान्तादिषु, वैद्य – व्योमशास्त्रादिषु च विहरति ।
(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
___________________________
उत्तराणि :
श्रुतिसुखनिनदे ! सकलप्रमोदे ! स्मृतिहितवरदे। सरसविनोदे! गति-मति – प्रेरक – काव्यविशारदे ! मात! इत्यादीनि सम्बोधनपदानि संस्कृतभाषायाः कृते अत्र प्रयुक्तानि ।
![]()
३. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत-
(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।
___________________________
उत्तराणि :
मुनिगणा: कस्या: विकासं कृतवन्त:?
(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति ।
___________________________
उत्तराणि :
सामान्यजनानां जीवनं कै: प्रभावितम् अस्ति?
(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः।
___________________________
उत्तराणि :
कवयः अपि कीदृशानि काव्यानि रचितवन्तः?
(घ) संस्कृतभाषा पुथिव्यां विहरति।
___________________________
उत्तराणि :
संस्कृतभाषा कुत्र विहरति?
(ङ) संस्कृतभाषा विविधभाषा: परिपोषयति।
___________________________
उत्तराणि :
संस्कृतभाषा का: परिषोषयति?
(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।
___________________________
उत्तराणि :
वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?
४. अध: प्रदत्तानां उदाहरणानुसारं विभक्तिं वचनं च लिखत-

उत्तराणि :
| (क) तव | षष्ठी | एकवचनम् |
| (ख) मज्जूषा | प्रथमा | एकवचनम् |
| (ग) संस्कृतिः | प्रथमा | एकवचनम् |
| (घ) जनानाम् | षष्ठी | बहुवचनम् |
| (ङ) जीवनस्य | षष्ठी | एकवचनम् |
| (च) धरायाम् | सप्तमी | एकवचनम् |
| (छ) शास्त्रेषु | सप्तमी | बहुवचनम् |
५. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत-
| ‘कवर्गः’ | ‘खवर्गः’ |
| (क) अयि मातस्तव पोषणक्षमता | स्मृतिहितवरदे सरसविनोदे |
| (ख) वेदव्यास-वाल्मीकि -मुनीनां | विजयते धरायाम् |
| (ग) पौराणिक-सामान्यजनानाम् | मम वचनातीता, सुन्दरसुरभाषा |
| (घ) श्रुतिसुखनिनदे सकलप्रमोदे | कालिदासबाणादिकवीनाम् |
| (ङ) वैद्यव्योम-शास्त्रादिविहारा | जीवनस्य आशा, सुन्दरसुरभाषा |
उत्तराणि :
| ‘कवर्गः’ | ‘खवर्गः’ |
| (क) अयि मातस्तव पोषणक्षमता | मम वचनातीता, |
| (ख) वेदव्यास-वाल्मीकि – मुनीनां | सुन्दरसुरभाषा। |
| (ग) पौराणिक-सामान्यजनानाम् | कालिदासबाणादिकवीनाम् । |
| (घ) श्रुतिसुखनिनदे सकलप्रमोदे | जीवनस्य आशा, सुन्दरसुरभाषा । |
| (ङ) वैद्यव्योम – शास्त्रादिविहारा | स्मृतिहितवरदे सरसविनोदे। |
६. उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत-

यथा— देवस्य आलयः = देवालयः
(क) सुराणां भाषा = _______________
(ख) सुन्दरी सुरभाषा = _______________
(ग) नवरसैः रुचिरा = _______________
(घ) पोषणस्य क्षमता = _______________
(ङ) मञ्जुला भाषा = ______________
उत्तराणि :
(क) सुरभाषा
(ख) सुन्दरसुरभाषा
(ग) नवरसरुचिरा
(घ) पोषणक्षमता
(ङ) मञ्जुलभाषा
![]()
७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
| कालिदासबाणादि, आशा, संस्कृतिः, विजयते, मम, वेदविषय, मञ्जुलमञ्जूषा, सकलप्रमोदे |
यथा – मुनिवर – विकसित – कविवर – विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(क) अयि मातः तव पोषणक्षमता ______________ वचनातीता।
उत्तराणि :
मम
(ख) वेदव्यास-वाल्मीकि – मुनीनां ______________ कवीनाम्।
उत्तराणि :
कालिदासबाणादि
(ग) पौराणिक – सामान्य जनानां जीवनस्य ______________।
उत्तराणि :
आशा
(घ) श्रुतिसुखनिनदे ______________ स्मृतिहितवरदे सरसविनोदे ।
उत्तराणि :
सकलप्रमोदे
(ङ) गति-मति -प्रेरक-काव्य-विशारदे, तव ______________ एषा सुन्दरसुरभाषा।
उत्तराणि :
संस्कृति:
(च) नवरस-रुचिरालङ्कृतिधारा ______________ वेदान्तविचारा।
उत्तराणि :
वेदविषय
(छ) वैद्य-व्योम-शास्त्रादि-विहारा ______________ धरायाम्, सुन्दरसुरभाषा।
उत्तराणि :
विजयते
८. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत-
(i) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः ?
(क) कठोरभाषा
(ख) शोचनीया भाषा
(ग) मनोहररूपेण संकलिता
(घ) सामान्यभाषा
उत्तराणि :
(ग) मनोहररूपेण संकलिता
(ii) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते ?
(क) केवलं कवीनाम्
(ख) बालकानाम्
(ग) पौराणिक – सामान्यजनानाम्
(घ) छात्राणाम्
उत्तराणि :
(ग) पौराणिक – सामान्यजनानाम्
(iii) सुन्दरसुरभाषा कुत्र विजयते ?
(क) आकाशे
(ख) जलधौ
(ग) धरायाम्
(घ) पवने
उत्तराणि :
(ग) धरायाम्
(iv) सुन्दरसुरभाषायां किं नास्ति ?
(क) शास्त्रज्ञानम्
(ख) संस्कृतिः
(ग) वेदान्तचिन्तनम्
(घ) अशुद्धि:
उत्तराणि :
(घ) अशुद्धि:
(v) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?
(क) पितः
(ख) मात:
(ग) भ्रात:
(घ) दात:
उत्तराणि :
(ख) मात:
![]()
योग्यताविस्तारः
संस्कृतप्रशस्तय:

१. मातृभूमिः सदा सेव्या मातृभाषा तथैव च। भारतं मातृभूमिर्नो मातृभाषा हि संस्कृतम्॥
२. भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। विहाय संस्कृतं नास्ति संस्कृतिः संस्कृताश्रिता॥
३. पुरुषा: संस्कृताः सन्तु महिलाः सन्तु संस्कृताः। संस्कृतेन विचारेण राष्ट्रं भातु सुसंस्कृतम्॥
૪. संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः। वेदतत्त्वार्थसज्जुष्टं लोकालोककरं शिवम्॥
५. यावद् भारतवर्षं स्याद् यावद् विन्ध्यहिमाचलौ। यावद् गङ्गा च गोदा च तावदेव हि संस्कृतम्॥
परियोजनाकार्यम्
१. संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्रा: जागरूका: करणीयाः।
२. सरलसंस्कृतगीतानां सङ्ग्रहं कुरुत कक्षायां च गायत। यथा – सुरससुबोधा विश्वमनोज्ञा, मनसा सततं स्मरणीयम्, मृदपि च चन्दनमस्मिन् देशे, इत्यादीनि।
३. संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च सङ्ग्रहः करणीयः।
अत्र इदम् अवधेयम्
परस्परसम्बद्धानां सार्थकपदानाम् एकपदीभावः समासः इति कथ्यते। प्रायेण द्वयोः ततोऽधिकानां वा पदानां संक्षिप्तीकरणं नाम समासः।
- यथा, नद्याः तीरम् – नदीतीरम्, राजः पुत्रः – राजपुत्रः, सुराणां भाषा – सुरभाषा, पोषणस्य क्षमता – पोषणक्षमता, वचनम् अतीता –
- वचनातीता, नवसंख्याकाः रसाः – नवरसाः, नवरसैः रुचिरा नवरसरुचिरा।
- समासानां विविधाः प्रभेदाः सन्ति – अव्ययीभावः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वः, बहुव्रीहिः च इति।
अव्ययीभावसमासे प्रायः पूर्वम् अव्ययपदस्य प्रयोगः भवति।
- यथा – रूपस्य योग्यम् – अनुरूपम्। तत्पुरुषसमासे परपदस्य प्राधान्यं भवति।
- यथा – सुराणां भाषा – सुरभाषा। द्विगुसमासे पूर्वं संख्यावाचकपदस्य व्यवहारः भवति।
- यथा, पञ्चानां वटानां समाहारः – पञ्चवटी। बहुव्रीहिसमासे अन्यपदस्य प्राधान्यं भवति।
- यथा, पीतम् अम्बरं यस्य सः – पीताम्बरः (श्रीविष्णुः)।