NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

Sanskrit Class 8 Chapter 8 Question Answer पश्यत कोणमैशान्यं भारतस्य मनोहरम्

Class 8 Sanskrit Chapter 8 NCERT Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

कक्षा 8 संस्कृत पाठ 8 के प्रश्न उत्तर पश्यत कोणमैशान्यं भारतस्य मनोहरम्

अभ्यासात् जायते सिद्धिः (पृष्ठ 90–94)

१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
____________________________
उत्तराणि :
अष्टाविंशतिः

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ?
____________________________
उत्तराणि :
इमाः सप्तभगिन्यः

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ?
____________________________
उत्तराणि :
अष्टराज्यानां

(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ?
____________________________
उत्तराणि :
अष्ट

(ङ) सप्तभगिनी – प्रदेशे कः उद्योगः सर्वप्रमुख : ?
____________________________
उत्तराणि :
वंशोद्योग :

NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत-
(क) भ्रातृसहित – भगिनीसप्तके कानि राज्यानि सन्ति ?
____________________________
उत्तराणि :
भातृसहित – भगिनीसप्तके इमानि राज्यानि सन्ति-अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
____________________________
उत्तराणि :
इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि।

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ?
____________________________
उत्तराणि :
ऐशान्यकोणप्रदेशेषु गारो – खासी-नागा- मिजो-लेप्चा-प्रभृतयः बहवः जनजातीयाः निवसन्ति ।

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
____________________________
उत्तराणि :
पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला – कलासु च निष्णाताः सन्ति ।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
____________________________
उत्तराणि :
वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण- पर्यन्तं क्रियते।

३. अधोलिखितेषु पदेषु प्रकृति – प्रत्ययविभागं कुरुत-
यथा—गन्तुम् = गम् + तुमुन्
(क) ज्ञातुम् = _________ + _________
(ख) विश्रुतः = _________ + _________
(ग) अतिरिच्य = _________ + _________
(घ) पठनीयम् = _________ + _________
उत्तराणि :
(क) ज्ञा + तुमुन्
(ख) वि + श्रु + क्त
(ग) अति + ऋच् + ल्यप्
(घ) पठ् + अनीयर्

४. रेखाङ्कितम् पदम् आधृत्य प्रश्नानिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
____________________________
उत्तराणि :
वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः?

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ।
____________________________
उत्तराणि :
का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते।
____________________________
उत्तराणि :
प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ।
____________________________
उत्तराणि :
एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?

५. यथानिर्देशम् उत्तरत-
(क) ‘महोदये! मम भगिनी कथयति’ । अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
____________________________
उत्तराणि :
स्वरायै

(ख) ‘सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि’ । अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
____________________________
उत्तराणि :
उपाधिना

(ग) ‘एतेषां राज्यानां पुनः सङ्घटनं विहितम्’। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
____________________________
उत्तराणि :
विहितम्

(घ) ‘अत्र वंशवृक्षाणां प्राचुर्यं विद्यते ।’ अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत ?
____________________________
उत्तराणि :
प्राचुर्यं

(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ । अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य किं समानार्थकं पदं प्रयुक्तम्?
____________________________
उत्तराणि :
वर्तन्ते

NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

६. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः, वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम् 1
उत्तराणि :
1. जनजाति:
2. भ्राता
3. सिक्किमः
4. मणिपुर:
5. त्रिपुरा
6. राज्यानि
7. संस्कृति :
8. पूर्वोत्तरम्
9. देशस्य
10. प्राकृतिक :
11. वंशवृक्षः
12. अरुणाचल:
13. नागालैण्डम्
14. मेघालय:
15. भगिनि
16. भगिन्यः
17. पुरा
18. सप्तभगिन्यः
19. बहवः
20. गारो
21. मिजो
22. नागा

७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-

सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः,
असम, मणिपुर, मिजोरमः, मेघालय, नागालैण्ड, त्रिपुरा, जनजातिः, प्राचुर्यम्

(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति।
उत्तराणि :
स्वदेशस्य राज्यानाम्

(ख) अस्माकं देशे _________ राज्यानि तथा अष्ट केन्द्रशासित प्रदेशाः सन्ति ।
उत्तराणि :
अष्टाविंशतिः

(ग) सप्तभगिन्यः एकः भ्राता च इति _________ कथ्यन्ते।
उत्तराणि :
पूर्वोत्तरराज्यानि

(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – _________, _________, _________, _________, _________, _________, _________ ।
उत्तराणि :
सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा ।

(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति।
उत्तराणि :
जानजाति:

(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते।
उत्तराणि :
प्राचुर्यं

८. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
____________________________
उत्तराणि :
अहसत्

(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक:
____________________________
उत्तराणि :
लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
____________________________
उत्तराणि :
आम्रः

(घ) व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह :
____________________________
उत्तराणि :
शाखा

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
____________________________
उत्तराणि :
यानम्

NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

९. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत-
NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम् 2
उत्तराणि :

(i) अयम्  प्रदेश:
(ii) संस्कृतिविशिष्टायाम्  भारतभूमौ
(iii) महत्त्वाधायिनी  संस्कृतिः
(iv) प्राचीने  इतिहासे
(v) एक:  समवायः

योग्यताविस्तारः

  • पत्काई इति भारतस्य पूर्वोत्तरभागे बर्मादेशेन सह सीमावर्तिक्षेत्रे स्थिता पर्वतशृङ्खला अस्ति।
  • बराकनदी भारतस्य मणिपुरं, नागालैण्डं, मिजोरमः, असमः चेति राज्येषु एवञ्च बड्गलादेशे वहन्ती ९०० कि.मी. दीर्घा नदी अस्ति।
  • गारोपर्वतः, खासीपर्वतः, जयन्तियापर्वतः च उत्तरपूर्वीयपीठस्थले स्थिताः त्रयः पर्वतशृड्खलाः सन्ति।
  • मेघालयपीठस्थले कृष्णहीरकः (कोयला), लौह-अयस्कः, सिलिमेनाइटः, क्षारशिला, यूरेनियम इत्यादयः खनिजसम्पदः प्रचुरं विद्यन्ते।
  • सप्तभगिन्यन्तर्गतप्रदेशानाम् उल्लेखः महाभारतं, रामायणं, पुराणानि इति प्राचीनग्रन्थेषु अपि उपलभ्यते।

NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम् 3
सप्तभगिन्यः इति प्रथितः राज्यसमूहः प्राकृतिकसौन्दर्येण अतिविशिष्टः। प्रत्येकं राज्यस्य अपि स्वकीयं महत्त्वम् अस्ति, भारते अरुणाचलप्रदेशे सूर्यस्य अरुणोदयः सर्वप्रथमं भवति, अतः अरुणाचलः। अत्र तादृशः प्रदेशः अपि अस्ति यत्र आवर्ष हिमपातः भवति।

असमराज्यं पूर्वं कामरूपमिति नाम्ना प्रसिद्धम्। अस्मिन् खनिजं इन्धनतैलं, इन्धनानिलः (CNG) च प्रचुरमात्रया दृश्यते। लोके बृहत्तमः रमणीयः नदीद्वीपः माजुली असमे ब्रह्मपुत्रनदे स्थितः अस्ति। मणिपुरस्य उल्लेखः तु महाभारतादिग्रन्थेषु अपि लभ्यते। अत्र सम्पूर्णे विश्वे एकमात्रं राष्ट्रियं प्लवमानम् उद्यानम् अस्ति। इदं लोकटक-सरोवरे प्लवते। मिजोरम्, सिक्किम, मेघालय, त्रिपुरा राज्यानामपि सन्ति वैशिष्ट्यानि।

परियोजनाकार्यम्

१. “पश्यत कोणमैशान्यं भारतस्य मनोहरम्” इति पाठस्य सन्दर्भे भित्तिपत्रे उत्तरपूर्वराज्यानां पृथक् पृथक् मानचित्रं प्रदर्शयत। संस्कृतभाषया कस्यापि राज्यस्य पञ्चवाक्यै: विवरणं लिखत।
NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम् 4
उदाहरणम् —
नागालैण्डम् – होर्न्बिल्-महोत्सवः अत्र प्रसिद्धः।
____________________________
____________________________
____________________________
____________________________
____________________________
____________________________

२. पूर्वोत्तरराज्यानां पर्यटनस्थलानां नामानि लिखित्वा तेषां संक्षिप्तं वर्णनं कुरुत।

उदाहरणम् —
राज्यम् – असमः
नाम – काजीरङ्गा राष्ट्रियम् अभयारण्यम्
वर्णनम् – अत्र एकशृड्गगजाः दृश्यन्ते। एतत् यूनेस्को-विश्व-प्रत्नकीर्ति-स्थलम् अस्ति।

NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्

३. विद्यालये ‘उत्तरपूर्वसंस्कृतिदिवसः’ (एकः विशेषः दिवसः) आयोजनीयः। छात्राः विविधराज्यानां परिधानं नृत्यं भोजनं वेशभूषां च प्रस्तुवन्तु। सम्पूर्णः कार्यक्रमः संस्कृत-संवाद-माध्यमेन एव करणीयः।

अत्र इदम् अवधेयम्

दश दिशः

पूर्वाग्नेयी दक्षिणा च नैर्द्रती पश्चिमा तथा।
वायवी चोत्तरैशानी ऊर्ध्वा चाधो दिशो दश।।

  • पूर्वा – East
  • आग्नेयी – South-East
  • दक्षिणा – South
  • नैर्द्रती – South-West
  • पश्चिमा – West
  • वायवी – North-West
  • उत्तरा – North
  • ईशानी – North-East
  • ऊर्ध्वा – Up / High
  • अधः – Down / Low